Skip to the content.

चार्वाक-संग्रहः

Deployed at - https://lokeshh.github.io/carvaka_samgraha

सर्वदर्शनसंग्रहः

तदेतत् सर्व्वं बृहस्पतिनाप्युक्तम् ।

“न स्वर्गो नापवर्गो वा नैवात्मा पारलौकिकः ।
नैव वर्णाश्रमादीनां क्रियाश्च फलदायिकाः ।

अग्निहोत्रं त्रयो वेदास्त्रिदण्डं भस्मगुण्ठनम् ।
बुद्धिपौरुषहीनानां जीविका धातृनिर्म्मिता ।

पशुश्चेन्निहतः स्वर्गं ज्योतिष्टोमे गमिष्यति ।
स्वपिता यजमानेन तत्र कस्मान्न हिंस्यते ।

मृतानामपि जन्तूनां श्राद्धं चेत्तृप्तिकारणम् ।
गच्छतामिह जन्तूनां व्यर्थं पाथेयकल्पनम् ।

स्वर्गस्थिता यदा तृप्तिं गच्छेयुस्तत्र दानतः ।
प्रासादस्योपरिस्थानामत्र कस्मान्न दीयते? ।

यावज्जीवेत् सुखं जीवेदृणं कृत्वा घृतं पिबेत् ।
भस्मीभूतस्य देहस्य पुनरागमनं कुतः ।

यदि गच्छेत् परं लोकं देहादेष विनिर्गतः ।
कस्माद्भूयो न चायाति बन्धुस्नेहसमाकुलः ।

ततश्च जीवनोपायो ब्राह्मणैर्निहितस्त्विह ।
मृतानां प्रेतकार्य्याणि न त्वन्यद्विद्यते क्वचित् ।

त्रयो वेदस्य कर्त्तारो भण्डधूर्त्तनिशाचराः ।
जर्फरीतुर्फरीत्यादि पण्डितानां वचः स्मृतम् ।

अश्वस्यात्र हि शिश्नन्तु पत्नीग्राह्यं प्रकीर्त्तितम् ।
भण्डैस्तद्वत् परञ्चैव ग्राह्यजातं प्रकीर्त्तितम् ।

मांसानां खादनं तद्वन्निशाचरसमीरितमिति” ।


मोक्षोपायः

यावज्जीवं सुखं जीवेन् नास्ति मृत्योर् अगोचरः ।
भस्मीभूतस्य शान्तस्य पुनरागमनं कुतः ॥


नैषधीयचरितम्

ग्रावोन्मज्जनवद्यज्ञफलेपि श्रुतिसत्यता ।
का श्रद्धा तत्र धीवृद्धाः कामाध्वा यन खिलीकृतः ॥

प्रावोन्मज्जनवत् ‘ग्रावाणः प्लवन्ते’ इति प्रतिपादितपाषाणतरणवज् ज्योतिष्टोमादियज्ञानां साध्ये स्वर्गादौ फलेपि ‘ज्योतिष्टोमेन स्वर्गकामो यजेत’ इत्यादिश्रुतीनां सत्यता यथार्थता । ग्रावोन्मज्जनवाक्यस्य प्रत्यक्षबाधितत्वात्, यागानन्तरमेव स्वर्गादेरदृष्टत्वाज्ज्योतिष्टोमादियागप्रतिपादिका श्रुतिरपि प्रत्यक्षबाधिता । तथाच ‘यागश्रुतिरप्रमाणम्, प्रत्यक्षविरुद्धत्वाद्ग्रावोन्मज्जनश्रुतिवत्’ इति प्रयोगाद्यागश्रुतेरपि स्वर्गादावसत्यतेति च व्याख्येयम् । अत्र विरुद्धलक्षणया सत्यतेत्यस्याऽसत्यतेत्यर्थः । एवमन्येषामपि वेदवाक्यानां श्रुतित्वाविशेषादप्रमाणत्वे हे धीवृद्धाः बुद्धिमन्तो देवास्तत्र फले श्रुतौ वा युष्माकं का श्रद्धा कथमास्तिक्यम्। अपि त्वप्रामाणिकेर्थे श्रद्धा न कार्या । यद्येन कारणेन यद्वशाद्वेदोक्तविद्यातिक्रमभिया कामाध्वा यदृच्छाचारमार्गः खिलीकृतो बद्धः । त्यक्त इत्यर्थः । श्रुतिमात्रस्याप्रमाणत्वाद्यज्ञे यजमानर्त्विजां कतिचिदहानि यद्ब्रह्मचर्यं तदप्यप्रामाणिकत्वात्त्यजतेति भावः । ‘धीवृद्धाः’ इत्युपहासे । अतिमूर्खा भवन्त इत्यर्थः ॥

केनापि बोधिसत्वेन जातं सत्त्वेन हेतुना ।
यद्वेदमर्मभेदाय जगदे जगदस्थिरम् ॥३८॥

केनाप्यज्ञातनाम्ना बोधिसत्त्वेनातिप्राज्ञेन जिनभट्टारकेण वेदस्य मर्मभेदाय रहस्यभङ्गाय जातमुत्पन्नम् । वेदमर्मभेदः कर्तुमारब्ध इति यावत् । कथमत आह-यद्यस्मात्सत्त्वेन हेतुना सत्त्वरूपेण लिङ्गेन यत्सत्तत्क्षणिकम् , यथा घट इत्यादिरूपेण जगदस्थिरं क्षणिकं जगदे प्रत्यपादि । सत्त्वलिङ्गेन विश्वस्य क्षणिकत्वसिद्धावुभयलोकगतं स्थिरमेकं कर्तारमधिकारिणमाश्रित्य वेदैर्विहितानां विधिनिषेधानां निराश्रयतया वेदस्याप्रामाण्यापादनाद्वेदमर्मभेदः कृत इत्यर्थः । बौद्धसिद्धान्तस्तु ग्रन्थान्तराद्बोद्धव्यः । विस्तरभयादत्र नोक्तः। अयं वक्ता पूर्वस्माद्भिन्नः। चार्वाक एव वा स्वमतं वेदाप्रामाण्यं बौद्धसंवादेन द्रढयति - केनेति । सत्त्वेन हेतुना यस्माज्जगदस्थिरं जगदे । तस्मात्केनापि लोकोत्तरप्रज्ञेन तेनैव चार्वाकेण वेदमर्मभेदाय बौद्धेन जातम् । तदीयमताङ्गीकरणात्तद्रपेणैव जातमित्यर्थः । ‘जगाद’ इति पाठे यद्बोधिसत्त्वं जगदस्थिरं जगादेति व्याख्येयम् ।